
Anjaneya Mangala Sloka Lyrics
- Genre:Alternative
- Year of Release:2025
Lyrics
वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रप्रभूताय मङ्गलं श्रीहनूमते ॥ १॥
करुणारसपूर्णाय फलापूपप्रियाय च ।
नानामाणिक्यहाराय मङ्गलं श्रीहनूमते ॥ २॥
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ ३॥
दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ ४॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।
ज्वलत्पावकनेत्राय मङ्गलं श्रीहनूमते ॥ ५॥
पम्पातीरविहाराय सौमित्रिप्राणदायिने ।
सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ ६॥
रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ ७॥
पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ ८॥
इति स्तुत्वा हनूमन्तं नीलमेघो गतव्यथः ।
प्रदक्षिणनमस्कारान् पञ्चवारं चकार सः ॥