Channa Keshava Ashtakam Lyrics
- Genre:Acoustic
- Year of Release:2022
Lyrics
कराभ्यां सदोच्चैः स्फुरच्छंखचक्रे
धरंतं पराभ्यां गदापद्महेती ।
रमापूजनीयारुणांघ्र्यब्जकोशं
भजे केशवेशं निजाभीष्टकोशम् ॥१॥
विरिंचेशदेवाधिपाद्यादितेयैः
सदागंधपुष्पाक्षतैर्धूपदीपैः ।
मुदा पूजितश्रीपदांभोजयुग्मं
भजे केशवेशं निजाभीष्टकोशम् ॥२॥
कलापूर्णचंद्रप्रतीकाशवक्त्रं
मलाद्यापहं सुप्रसन्नं स्वदृष्ट्या ।
गलामुक्तमुक्तास्फुरच्चारुमालं
भजे केशवेशं निजाभीष्टकोशम् ॥३॥
सदानीतभीमोदकैराभिषिक्तं
द्विजेंद्रेरितैः प्रत्यहं वेदशास्त्रैः ।
पुराणैश्च पुण्यैः स्फुटं प्रीतिभाजं
भजे केशवेशं निजाभीष्टकोशम् ॥४॥
महीमूर्धभूषामणित्वान्महद्भिः
मणिग्रामनाम्नेरिते पुण्यदेशे ।
वसद्वैष्णवौघैः सदा संवसंतं
भजे केशवेशं निजाभीष्टकोशम् ॥५॥
मणिग्रामभूषामणिं ग्रीष्मपूषा-
युतातर्जवेषं हृतस्वीयदोषम् ।
निजानामभीष्टप्रदं ध्वस्तदोषं
भजे केशवेशं निजाभीष्टकोशम् ॥६॥
अघक्षालनेक्षं द्विषत्क्षोभदक्षं
भजत्पक्षरक्षाधृताक्षीणदीक्षम् ।
क्षरादक्षरायाः परं विश्वकुक्षिं
भजे केशवेशं निजाभीष्टकोशम् ॥७॥
कृतस्वीयपोषं सदापास्तदोषं
स्तुवद्दत्ततोषं कृतारातिशोषम् ।
स्फुरद्धासलेशं पयोवार्धिजेशं
भजे केशवेशं निजाभीष्टकोशम् ॥८॥
वरदराजकृतां वरकेशव-
स्तुतिमिमां सततं परमादरात् ।
पठति यः शुभकेशवसन्निधौ
स निजमीप्सितमाशु समाप्नुयात् ॥९॥
इति श्रीवरदराजाचार्य विरचितं श्रीचन्नकेशवाष्टकम्